Original

वैशंपायन उवाच ।अर्जुनस्तु परं यत्नमातस्थे गुरुपूजने ।अस्त्रे च परमं योगं प्रियो द्रोणस्य चाभवत् ॥ १ ॥

Segmented

वैशंपायन उवाच अर्जुनः तु परम् यत्नम् आतस्थे गुरु-पूजने अस्त्रे च परमम् योगम् प्रियो द्रोणस्य च अभवत्

Analysis

Word Lemma Parse
वैशंपायन वैशम्पायन pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
अर्जुनः अर्जुन pos=n,g=m,c=1,n=s
तु तु pos=i
परम् पर pos=n,g=m,c=2,n=s
यत्नम् यत्न pos=n,g=m,c=2,n=s
आतस्थे आस्था pos=v,p=3,n=s,l=lit
गुरु गुरु pos=n,comp=y
पूजने पूजन pos=n,g=n,c=7,n=s
अस्त्रे अस्त्र pos=n,g=n,c=7,n=s
pos=i
परमम् परम pos=a,g=m,c=2,n=s
योगम् योग pos=n,g=m,c=2,n=s
प्रियो प्रिय pos=a,g=m,c=1,n=s
द्रोणस्य द्रोण pos=n,g=m,c=6,n=s
pos=i
अभवत् भू pos=v,p=3,n=s,l=lan