Original

न तस्य वेदाध्ययने तथा बुद्धिरजायत ।यथास्य बुद्धिरभवद्धनुर्वेदे परंतप ॥ ३ ॥

Segmented

न तस्य वेद-अध्ययने तथा बुद्धिः अजायत यथा अस्य बुद्धिः अभवद् धनुर्वेदे परंतप

Analysis

Word Lemma Parse
pos=i
तस्य तद् pos=n,g=m,c=6,n=s
वेद वेद pos=n,comp=y
अध्ययने अध्ययन pos=n,g=n,c=7,n=s
तथा तथा pos=i
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अजायत जन् pos=v,p=3,n=s,l=lan
यथा यथा pos=i
अस्य इदम् pos=n,g=m,c=6,n=s
बुद्धिः बुद्धि pos=n,g=f,c=1,n=s
अभवद् भू pos=v,p=3,n=s,l=lan
धनुर्वेदे धनुर्वेद pos=n,g=m,c=7,n=s
परंतप परंतप pos=a,g=m,c=8,n=s