Original

अथैनं देशजैः शुक्लैर्वासोभिः समयोजयन् ।आच्छन्नः स तु वासोभिर्जीवन्निव नरर्षभः ।शुशुभे पुरुषव्याघ्रो महार्हशयनोचितः ॥ २० ॥

Segmented

अथ एनम् देश-जैः शुक्लैः वासोभिः समयोजयन् आच्छन्नः स तु वासोभिः जीवन्न् इव नर-ऋषभः शुशुभे पुरुष-व्याघ्रः महार्ह-शयन-उचितः

Analysis

Word Lemma Parse
अथ अथ pos=i
एनम् एनद् pos=n,g=m,c=2,n=s
देश देश pos=n,comp=y
जैः pos=a,g=n,c=3,n=p
शुक्लैः शुक्ल pos=a,g=n,c=3,n=p
वासोभिः वासस् pos=n,g=n,c=3,n=p
समयोजयन् संयोजय् pos=v,p=3,n=p,l=lan
आच्छन्नः आच्छद् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
वासोभिः वासस् pos=n,g=n,c=3,n=p
जीवन्न् जीव् pos=va,g=m,c=1,n=s,f=part
इव इव pos=i
नर नर pos=n,comp=y
ऋषभः ऋषभ pos=n,g=m,c=1,n=s
शुशुभे शुभ् pos=v,p=3,n=s,l=lit
पुरुष पुरुष pos=n,comp=y
व्याघ्रः व्याघ्र pos=n,g=m,c=1,n=s
महार्ह महार्ह pos=a,comp=y
शयन शयन pos=n,comp=y
उचितः उचित pos=a,g=m,c=1,n=s