Original

समीक्षमाणः स तु तां वयःस्थां तनुवाससम् ।तस्य कामः प्रववृधे गहनेऽग्निरिवोत्थितः ॥ ६ ॥

Segmented

समीक्षमाणः स तु ताम् वयःस्थाम् तनु-वाससम् तस्य कामः प्रववृधे गहने ऽग्निः इव उत्थितः

Analysis

Word Lemma Parse
समीक्षमाणः समीक्ष् pos=va,g=m,c=1,n=s,f=part
तद् pos=n,g=m,c=1,n=s
तु तु pos=i
ताम् तद् pos=n,g=f,c=2,n=s
वयःस्थाम् वयःस्था pos=n,g=f,c=2,n=s
तनु तनु pos=a,comp=y
वाससम् वासस् pos=n,g=f,c=2,n=s
तस्य तद् pos=n,g=m,c=6,n=s
कामः काम pos=n,g=m,c=1,n=s
प्रववृधे प्रवृध् pos=v,p=3,n=s,l=lit
गहने गहन pos=n,g=n,c=7,n=s
ऽग्निः अग्नि pos=n,g=m,c=1,n=s
इव इव pos=i
उत्थितः उत्था pos=va,g=m,c=1,n=s,f=part