Original

तद्दृष्ट्वा महदाश्चर्यं विस्मिता मुनिसत्तमाः ।अधिकां स्म ततो वृत्तिमवर्तन्पाण्डवान्प्रति ॥ ६३ ॥

Segmented

तद् दृष्ट्वा महद् आश्चर्यम् विस्मिता मुनि-सत्तमाः अधिकाम् स्म ततो वृत्तिम् अवर्तन् पाण्डवान् प्रति

Analysis

Word Lemma Parse
तद् तद् pos=n,g=n,c=2,n=s
दृष्ट्वा दृश् pos=vi
महद् महत् pos=a,g=n,c=2,n=s
आश्चर्यम् आश्चर्य pos=n,g=n,c=2,n=s
विस्मिता विस्मि pos=va,g=m,c=1,n=p,f=part
मुनि मुनि pos=n,comp=y
सत्तमाः सत्तम pos=a,g=m,c=1,n=p
अधिकाम् अधिक pos=a,g=f,c=2,n=s
स्म स्म pos=i
ततो ततस् pos=i
वृत्तिम् वृत्ति pos=n,g=f,c=2,n=s
अवर्तन् वृत् pos=v,p=3,n=p,l=lan
पाण्डवान् पाण्डव pos=n,g=m,c=2,n=p
प्रति प्रति pos=i