Original

मन्नियोगात्सुकेशान्ते द्विजातेस्तपसाधिकात् ।पुत्रान्गुणसमायुक्तानुत्पादयितुमर्हसि ।त्वत्कृतेऽहं पृथुश्रोणि गच्छेयं पुत्रिणां गतिम् ॥ ३० ॥

Segmented

मद्-नियोगात् सुकेश-अन्ते द्विजाति तपसा अधिकात् पुत्रान् गुण-समायुक्तान् उत्पादयितुम् अर्हसि त्वद्-कृते ऽहम् पृथु-श्रोणि गच्छेयम् पुत्रिणाम् गतिम्

Analysis

Word Lemma Parse
मद् मद् pos=n,comp=y
नियोगात् नियोग pos=n,g=m,c=5,n=s
सुकेश सुकेश pos=a,comp=y
अन्ते अन्त pos=n,g=f,c=8,n=s
द्विजाति द्विजाति pos=n,g=m,c=5,n=s
तपसा तपस् pos=n,g=n,c=3,n=s
अधिकात् अधिक pos=a,g=m,c=5,n=s
पुत्रान् पुत्र pos=n,g=m,c=2,n=p
गुण गुण pos=n,comp=y
समायुक्तान् समायुज् pos=va,g=m,c=2,n=p,f=part
उत्पादयितुम् उत्पादय् pos=vi
अर्हसि अर्ह् pos=v,p=2,n=s,l=lat
त्वद् त्वद् pos=n,comp=y
कृते कृत pos=n,g=n,c=7,n=s
ऽहम् मद् pos=n,g=,c=1,n=s
पृथु पृथु pos=a,comp=y
श्रोणि श्रोणी pos=n,g=f,c=8,n=s
गच्छेयम् गम् pos=v,p=1,n=s,l=vidhilin
पुत्रिणाम् पुत्रिन् pos=a,g=m,c=6,n=p
गतिम् गति pos=n,g=f,c=2,n=s