Original

पाण्डुरुवाच ।सतामपि कुले जाताः कर्मणा बत दुर्गतिम् ।प्राप्नुवन्त्यकृतात्मानः कामजालविमोहिताः ॥ २ ॥

Segmented

पाण्डुः उवाच सताम् अपि कुले जाताः कर्मणा बत दुर्गतिम् प्राप्नुवन्ति अकृतात्मानः काम-जाल-विमोहिताः

Analysis

Word Lemma Parse
पाण्डुः पाण्डु pos=n,g=m,c=1,n=s
उवाच वच् pos=v,p=3,n=s,l=lit
सताम् अस् pos=va,g=m,c=6,n=p,f=part
अपि अपि pos=i
कुले कुल pos=n,g=n,c=7,n=s
जाताः जन् pos=va,g=m,c=1,n=p,f=part
कर्मणा कर्मन् pos=n,g=n,c=3,n=s
बत बत pos=i
दुर्गतिम् दुर्गति pos=n,g=f,c=2,n=s
प्राप्नुवन्ति प्राप् pos=v,p=3,n=p,l=lat
अकृतात्मानः अकृतात्मन् pos=a,g=m,c=1,n=p
काम काम pos=n,comp=y
जाल जाल pos=n,comp=y
विमोहिताः विमोहय् pos=va,g=m,c=1,n=p,f=part