Original

याः काश्चिज्जीवता शक्याः कर्तुमभ्युदयक्रियाः ।ताः सर्वाः समतिक्रम्य निमेषादिष्ववस्थितः ॥ १६ ॥

Segmented

याः काश्चिज् जीवता शक्याः कर्तुम् अभ्युदय-क्रियाः ताः सर्वाः समतिक्रम्य निमेष-आदिषु अवस्थितः

Analysis

Word Lemma Parse
याः यद् pos=n,g=f,c=1,n=p
काश्चिज् कश्चित् pos=n,g=f,c=1,n=p
जीवता जीव् pos=va,g=m,c=3,n=s,f=part
शक्याः शक्य pos=a,g=f,c=1,n=p
कर्तुम् कृ pos=vi
अभ्युदय अभ्युदय pos=n,comp=y
क्रियाः क्रिया pos=n,g=f,c=1,n=p
ताः तद् pos=n,g=f,c=2,n=p
सर्वाः सर्व pos=n,g=f,c=2,n=p
समतिक्रम्य समतिक्रम् pos=vi
निमेष निमेष pos=n,comp=y
आदिषु आदि pos=n,g=m,c=7,n=p
अवस्थितः अवस्था pos=va,g=m,c=1,n=s,f=part