Original

शश्वद्धर्मात्मनां मुख्ये कुले जातस्य भारत ।कामलोभाभिभूतस्य कथं ते चलिता मतिः ॥ ११ ॥

Segmented

शश्वत् धर्म-आत्मनाम् मुख्ये कुले जातस्य भारत काम-लोभ-अभिभूतस्य कथम् ते चलिता मतिः

Analysis

Word Lemma Parse
शश्वत् शश्वत् pos=i
धर्म धर्म pos=n,comp=y
आत्मनाम् आत्मन् pos=n,g=m,c=6,n=p
मुख्ये मुख्य pos=a,g=n,c=7,n=s
कुले कुल pos=n,g=n,c=7,n=s
जातस्य जन् pos=va,g=m,c=6,n=s,f=part
भारत भारत pos=n,g=m,c=8,n=s
काम काम pos=n,comp=y
लोभ लोभ pos=n,comp=y
अभिभूतस्य अभिभू pos=va,g=m,c=6,n=s,f=part
कथम् कथम् pos=i
ते त्वद् pos=n,g=,c=6,n=s
चलिता चल् pos=va,g=f,c=1,n=s,f=part
मतिः मति pos=n,g=f,c=1,n=s