Original

हित्वा प्रासादनिलयं शुभानि शयनानि च ।अरण्यनित्यः सततं बभूव मृगयापरः ॥ ७ ॥

Segmented

हित्वा प्रासाद-निलयम् शुभानि शयनानि च अरण्य-नित्यः सततम् बभूव मृगया-परः

Analysis

Word Lemma Parse
हित्वा हा pos=vi
प्रासाद प्रासाद pos=n,comp=y
निलयम् निलय pos=n,g=m,c=2,n=s
शुभानि शुभ pos=a,g=n,c=2,n=p
शयनानि शयन pos=n,g=n,c=2,n=p
pos=i
अरण्य अरण्य pos=n,comp=y
नित्यः नित्य pos=a,g=m,c=1,n=s
सततम् सततम् pos=i
बभूव भू pos=v,p=3,n=s,l=lit
मृगया मृगया pos=n,comp=y
परः पर pos=n,g=m,c=1,n=s