Original

प्रयुक्तपाणिग्रहणं यद् अन्यद् वधूवरं पुष्यति कान्तिम् अग्र्याम् ।सान्निध्ययोगाद् अनयोस् तदानीं किं कथ्यते श्रीर् उभयस्य तस्य ॥

Segmented

प्रयुक्त-पाणिग्रहणम् यद् अन्यद् वधू-वरम् पुष्यति कान्तिम् अग्र्याम् सांनिध्य-योगात् अनयोस् तदानीम् किम् कथ्यते श्रीः उभयस्य तस्य

Analysis

Word Lemma Parse
प्रयुक्त प्रयुज् pos=va,comp=y,f=part
पाणिग्रहणम् पाणिग्रहण pos=n,g=n,c=1,n=s
यद् यद् pos=n,g=n,c=1,n=s
अन्यद् अन्य pos=n,g=n,c=1,n=s
वधू वधू pos=n,comp=y
वरम् वर pos=n,g=m,c=2,n=s
पुष्यति पुष् pos=v,p=3,n=s,l=lat
कान्तिम् कान्ति pos=n,g=f,c=2,n=s
अग्र्याम् अग्र्य pos=a,g=f,c=2,n=s
सांनिध्य सांनिध्य pos=n,comp=y
योगात् योग pos=n,g=m,c=5,n=s
अनयोस् इदम् pos=n,g=m,c=6,n=d
तदानीम् तदानीम् pos=i
किम् pos=n,g=n,c=1,n=s
कथ्यते कथय् pos=v,p=3,n=s,l=lat
श्रीः श्री pos=n,g=f,c=1,n=s
उभयस्य उभय pos=a,g=m,c=6,n=s
तस्य तद् pos=n,g=m,c=6,n=s