Original

अखण्डितं प्रेम लभस्व पत्युर् इत्य् उच्यते ताभिर् उमा स्म नम्रा ।तया तु तस्यार्धशरीरभाजा पश्चात्कृताः स्निग्धजनाशिषो ऽ पि ॥

Segmented

अखण्डितम् प्रेम लभस्व पत्युः इत्य् उच्यते ताभिः उमा स्म नम्रा तया तु तस्य अर्ध-शरीर-भाज् पश्चात्कृताः स्निग्ध-जन-आशिषः ऽपि

Analysis

Word Lemma Parse
अखण्डितम् अखण्डित pos=a,g=n,c=2,n=s
प्रेम प्रेमन् pos=n,g=n,c=2,n=s
लभस्व लभ् pos=v,p=2,n=s,l=lot
पत्युः पति pos=n,g=,c=6,n=s
इत्य् इति pos=i
उच्यते वच् pos=v,p=3,n=s,l=lat
ताभिः तद् pos=n,g=f,c=3,n=p
उमा उमा pos=n,g=f,c=1,n=s
स्म स्म pos=i
नम्रा नम्र pos=a,g=f,c=1,n=s
तया तद् pos=n,g=f,c=3,n=s
तु तु pos=i
तस्य तद् pos=n,g=m,c=6,n=s
अर्ध अर्ध pos=a,comp=y
शरीर शरीर pos=n,comp=y
भाज् भाज् pos=a,g=f,c=3,n=s
पश्चात्कृताः पश्चात्कृत pos=a,g=f,c=1,n=p
स्निग्ध स्निग्ध pos=a,comp=y
जन जन pos=n,comp=y
आशिषः आशिस् pos=n,g=f,c=1,n=p
ऽपि अपि pos=i