Original

मन्दाकिन्याः पयःशेषं दिग्वारणमदाविलम् ।हेमाम्भोरुहसस्यानां तद्वाप्यो धाम सांप्रतम् ॥

Segmented

मन्दाकिन्याः पयः-शेषम् दिग्वारण-मद-आविलम् हेम-अम्भोरुह-सस्यानाम् तद्-वाप्यः धाम सांप्रतम्

Analysis

Word Lemma Parse
मन्दाकिन्याः मन्दाकिनी pos=n,g=f,c=6,n=s
पयः पयस् pos=n,comp=y
शेषम् शेष pos=n,g=n,c=1,n=s
दिग्वारण दिग्वारण pos=n,comp=y
मद मद pos=n,comp=y
आविलम् आविल pos=a,g=n,c=1,n=s
हेम हेमन् pos=n,comp=y
अम्भोरुह अम्भोरुह pos=n,comp=y
सस्यानाम् सस्य pos=n,g=n,c=6,n=p
तद् तद् pos=n,comp=y
वाप्यः वापी pos=n,g=f,c=1,n=p
धाम धामन् pos=n,g=n,c=1,n=s
सांप्रतम् सांप्रतम् pos=i