Original

तुषारसंघातशिलाः खुराग्रैः समुल्लिखन् दर्पकलः ककुद्मान् ।दृष्टः कथं चिद् गवयैर् विविग्नैर् असोढसिंहध्वनिर् उन्ननाद ॥

Segmented

तुषार-संघात-शिलाः खुर-अग्रैः समुल्लिखन् दर्प-कलः ककुद्मान् दृष्टः कथंचिद् गवयैः विविग्नैः असोढ-सिंह-ध्वनिः उन्ननाद

Analysis

Word Lemma Parse
तुषार तुषार pos=n,comp=y
संघात संघात pos=n,comp=y
शिलाः शिला pos=n,g=f,c=2,n=p
खुर खुर pos=n,comp=y
अग्रैः अग्र pos=n,g=n,c=3,n=p
समुल्लिखन् समुल्लिख् pos=va,g=m,c=1,n=s,f=part
दर्प दर्प pos=n,comp=y
कलः कल pos=a,g=m,c=1,n=s
ककुद्मान् ककुद्मन्त् pos=n,g=m,c=1,n=s
दृष्टः दृश् pos=va,g=m,c=1,n=s,f=part
कथंचिद् कथंचिद् pos=i
गवयैः गवय pos=n,g=m,c=3,n=p
विविग्नैः विविज् pos=va,g=m,c=3,n=p,f=part
असोढ असोढ pos=a,comp=y
सिंह सिंह pos=n,comp=y
ध्वनिः ध्वनि pos=n,g=m,c=1,n=s
उन्ननाद उन्नद् pos=v,p=3,n=s,l=lit