Original

लज्जा तिरश्चां यदि चेतसि स्याद् असंशयं पर्वतराजपुत्र्याः ।तं केशपाशं प्रसमीक्ष्य कुर्युर् वालप्रियत्वं शिथिलं चमर्यः ॥

Segmented

लज्जा तिरश्चाम् यदि चेतसि स्याद् असंशयम् पर्वतराज-पुत्र्याः तम् केश-पाशम् प्रसमीक्ष्य कुर्युः वाल-प्रिय-त्वम् शिथिलम् चमर्यः

Analysis

Word Lemma Parse
लज्जा लज्जा pos=n,g=f,c=1,n=s
तिरश्चाम् तिर्यञ्च् pos=a,g=m,c=6,n=p
यदि यदि pos=i
चेतसि चेतस् pos=n,g=n,c=7,n=s
स्याद् अस् pos=v,p=3,n=s,l=vidhilin
असंशयम् असंशयम् pos=i
पर्वतराज पर्वतराज pos=n,comp=y
पुत्र्याः पुत्री pos=n,g=f,c=6,n=s
तम् तद् pos=n,g=m,c=2,n=s
केश केश pos=n,comp=y
पाशम् पाश pos=n,g=m,c=2,n=s
प्रसमीक्ष्य प्रसमीक्ष् pos=vi
कुर्युः कृ pos=v,p=3,n=p,l=vidhilin
वाल वाल pos=n,comp=y
प्रिय प्रिय pos=a,comp=y
त्वम् त्व pos=n,g=n,c=2,n=s
शिथिलम् शिथिल pos=a,g=n,c=2,n=s
चमर्यः चमरी pos=n,g=f,c=1,n=p