Original

असंभृतं मण्डनम् अङ्गयष्टेर् अनासवाख्यं करणं मदस्य ।कामस्य पुष्पव्यतिरिक्तम् अस्त्रं बाल्यात् परं साथ वयः प्रपेदे ॥

Segmented

असंभृतम् मण्डनम् अङ्ग-यष्ट्याः अनासव-आख्यम् करणम् मदस्य कामस्य पुष्प-व्यतिरिक्तम् अस्त्रम् बाल्यात् परम् सा अथ वयः प्रपेदे

Analysis

Word Lemma Parse
असंभृतम् असंभृत pos=a,g=n,c=2,n=s
मण्डनम् मण्डन pos=n,g=n,c=2,n=s
अङ्ग अङ्ग pos=n,comp=y
यष्ट्याः यष्टि pos=n,g=f,c=6,n=s
अनासव अनासव pos=n,comp=y
आख्यम् आख्या pos=n,g=n,c=2,n=s
करणम् करण pos=n,g=n,c=2,n=s
मदस्य मद pos=n,g=m,c=6,n=s
कामस्य काम pos=n,g=m,c=6,n=s
पुष्प पुष्प pos=n,comp=y
व्यतिरिक्तम् व्यतिरिच् pos=va,g=n,c=2,n=s,f=part
अस्त्रम् अस्त्र pos=n,g=n,c=2,n=s
बाल्यात् बाल्य pos=n,g=n,c=5,n=s
परम् पर pos=n,g=n,c=2,n=s
सा तद् pos=n,g=f,c=1,n=s
अथ अथ pos=i
वयः वयस् pos=n,g=n,c=2,n=s
प्रपेदे प्रपद् pos=v,p=3,n=s,l=lit