Original

लाङ्गूलविक्षेपविसर्पिशोभैर् इतस् ततश् चन्द्रमरीचिगौरैः ।यस्यार्थयुक्तं गिरिराजशब्दं कुर्वन्ति वालव्यजनैश् चमर्यः ॥

Segmented

लाङ्गूल-विक्षेप-विसर्पिन्-शोभैः इतस् ततः चन्द्र-मरीचि-गौरैः यस्य अर्थ-युक्तम् गिरिराज-शब्दम् कुर्वन्ति वाल-व्यजनैः चमर्यः

Analysis

Word Lemma Parse
लाङ्गूल लाङ्गूल pos=n,comp=y
विक्षेप विक्षेप pos=n,comp=y
विसर्पिन् विसर्पिन् pos=a,comp=y
शोभैः शोभ pos=a,g=n,c=3,n=p
इतस् इतस् pos=i
ततः ततस् pos=i
चन्द्र चन्द्र pos=n,comp=y
मरीचि मरीचि pos=n,comp=y
गौरैः गौर pos=a,g=n,c=3,n=p
यस्य यद् pos=n,g=m,c=6,n=s
अर्थ अर्थ pos=n,comp=y
युक्तम् युज् pos=va,g=m,c=2,n=s,f=part
गिरिराज गिरिराज pos=n,comp=y
शब्दम् शब्द pos=n,g=m,c=2,n=s
कुर्वन्ति कृ pos=v,p=3,n=p,l=lat
वाल वाल pos=n,comp=y
व्यजनैः व्यजन pos=n,g=n,c=3,n=p
चमर्यः चमरी pos=n,g=f,c=1,n=p