Original

चोलेष्वास्ते सुमुखि कुशली त्वत्प्रियः पृच्छति त्वां कच्चित् क्षेमं भजति भवतीत्यात्तवाचं भवन्तम् भूयोभूयः कथय कथयेत्यालपन्त्यश्रुमिश्रैः प्रीतिस्मेरैर्मदिरनयना मानयिष्यत्यपाङ्गैः ॥

Segmented

चोलेषु आस्ते सु मुखे कुशली त्वद्-प्रियः पृच्छति त्वाम् कच्चित् क्षेमम् भजति भवती इति आत्त-वाचम् भवन्तम् भूयस् भूयस् कथय कथय इति आलप् अश्रु-मिश्रैः प्रीति-स्मेरैः मदिर-नयना मानयिष्यति अपाङ्गैः

Analysis

Word Lemma Parse
चोलेषु चोल pos=n,g=m,c=7,n=p
आस्ते आस् pos=v,p=3,n=s,l=lat
सु सु pos=i
मुखे मुख pos=a,g=f,c=8,n=s
कुशली कुशलिन् pos=a,g=m,c=1,n=s
त्वद् त्वद् pos=n,comp=y
प्रियः प्रिय pos=a,g=m,c=1,n=s
पृच्छति प्रच्छ् pos=v,p=3,n=s,l=lat
त्वाम् त्वद् pos=n,g=,c=2,n=s
कच्चित् कच्चित् pos=i
क्षेमम् क्षेम pos=n,g=n,c=2,n=s
भजति भज् pos=v,p=3,n=s,l=lat
भवती भवत् pos=a,g=f,c=1,n=s
इति इति pos=i
आत्त आदा pos=va,comp=y,f=part
वाचम् वाच् pos=n,g=m,c=2,n=s
भवन्तम् भवत् pos=a,g=m,c=2,n=s
भूयस् भूयस् pos=i
भूयस् भूयस् pos=i
कथय कथय् pos=v,p=2,n=s,l=lot
कथय कथय् pos=v,p=2,n=s,l=lot
इति इति pos=i
आलप् आलप् pos=va,g=f,c=1,n=s,f=part
अश्रु अश्रु pos=n,comp=y
मिश्रैः मिश्र pos=a,g=m,c=3,n=p
प्रीति प्रीति pos=n,comp=y
स्मेरैः स्मेर pos=a,g=m,c=3,n=p
मदिर मदिर pos=a,comp=y
नयना नयन pos=n,g=f,c=1,n=s
मानयिष्यति मानय् pos=v,p=3,n=s,l=lrt
अपाङ्गैः अपाङ्ग pos=n,g=m,c=3,n=p