Original

भूषास्वास्थां यदपि जहती तां वहत्येव काञ्चीं ग्राहं ग्राहं पृथु पृथु मया मौक्तिकं गुम्भिता या श्रोणीबिम्बे सुमहति तया भूषिते कोमलाङ्ग्याः सालावीतां स किल मदनो मन्यते राजधानीम् ॥

Segmented

भूषासु आस्थाम् यत् अपि जहती ताम् वहति एव काञ्चीम् ग्राहम् ग्राहम् पृथु पृथु मया मौक्तिकम् गुम्भिता श्रोणी-बिम्बे सु महति तया भूषिते कोमल-अङ्गायाः साल-आवीताम् स किल मदनो मन्यते राजधानीम्

Analysis

Word Lemma Parse
भूषासु भूषा pos=n,g=f,c=7,n=p
आस्थाम् आस्था pos=n,g=f,c=2,n=s
यत् यत् pos=i
अपि अपि pos=i
जहती हा pos=va,g=f,c=1,n=s,f=part
ताम् तद् pos=n,g=f,c=2,n=s
वहति वह् pos=v,p=3,n=s,l=lat
एव एव pos=i
काञ्चीम् काञ्ची pos=n,g=f,c=2,n=s
ग्राहम् ग्रह् pos=vi
ग्राहम् ग्रह् pos=vi
पृथु पृथु pos=a,g=n,c=2,n=s
पृथु पृथु pos=a,g=n,c=2,n=s
मया मद् pos=n,g=,c=3,n=s
मौक्तिकम् मौक्तिक pos=n,g=n,c=2,n=s
गुम्भिता यद् pos=n,g=f,c=1,n=s
श्रोणी श्रोणी pos=n,comp=y
बिम्बे बिम्ब pos=n,g=m,c=7,n=s
सु सु pos=i
महति महत् pos=a,g=m,c=7,n=s
तया तद् pos=n,g=f,c=3,n=s
भूषिते भूषय् pos=va,g=m,c=7,n=s,f=part
कोमल कोमल pos=a,comp=y
अङ्गायाः अङ्ग pos=a,g=f,c=6,n=s
साल साल pos=n,comp=y
आवीताम् आव्ये pos=va,g=f,c=2,n=s,f=part
तद् pos=n,g=m,c=1,n=s
किल किल pos=i
मदनो मदन pos=n,g=m,c=1,n=s
मन्यते मन् pos=v,p=3,n=s,l=lat
राजधानीम् राजधानी pos=n,g=f,c=2,n=s