Original

यत्रापाङ्गद्युतिकवचिते किञ्चिदुत्सार्य केशान् दत्तः प्रेम्णा दिनमनु मया दीर्घिकारक्तपद्मः तस्मिन्नस्या भवति नियतं हन्त चिन्ताकुलाया गण्डन्यस्तः करकिसलयः कर्णजाहे ऽवतंसः ॥

Segmented

यत्र अपाङ्ग-द्युति-कवचिते किंचिद् उत्सार्य केशान् दत्तः प्रेम्णा दिनम् अनु मया दीर्घिका-रक्त-पद्मः तस्मिन् अस्या भवति नियतम् हन्त चिन्ता-आकुलायाः गण्ड-न्यस्तः करकिसलयः कर्ण-जाहे ऽवतंसः

Analysis

Word Lemma Parse
यत्र यत्र pos=i
अपाङ्ग अपाङ्ग pos=n,comp=y
द्युति द्युति pos=n,comp=y
कवचिते कवचित pos=a,g=m,c=7,n=s
किंचिद् कश्चित् pos=n,g=n,c=2,n=s
उत्सार्य उत्सारय् pos=vi
केशान् केश pos=n,g=m,c=2,n=p
दत्तः दा pos=va,g=m,c=1,n=s,f=part
प्रेम्णा प्रेमन् pos=n,g=,c=3,n=s
दिनम् दिन pos=n,g=n,c=2,n=s
अनु अनु pos=i
मया मद् pos=n,g=,c=3,n=s
दीर्घिका दीर्घिका pos=n,comp=y
रक्त रक्त pos=a,comp=y
पद्मः पद्म pos=n,g=m,c=1,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
अस्या इदम् pos=n,g=f,c=6,n=s
भवति भू pos=v,p=3,n=s,l=lat
नियतम् नियतम् pos=i
हन्त हन्त pos=i
चिन्ता चिन्ता pos=n,comp=y
आकुलायाः आकुल pos=a,g=f,c=6,n=s
गण्ड गण्ड pos=n,comp=y
न्यस्तः न्यस् pos=va,g=m,c=1,n=s,f=part
करकिसलयः करकिसलय pos=n,g=m,c=1,n=s
कर्ण कर्ण pos=n,comp=y
जाहे जाह pos=n,g=n,c=7,n=s
ऽवतंसः अवतंस pos=n,g=m,c=1,n=s