Original

पश्यन्नेनां बहलसुषमामण्डलान्तर्निमग्नां मध्ये ऽन्यासामपि चलदृशां ज्ञास्यसे नो कथं त्वम् ज्योत्स्नाजालस्नपितभुवना तारकाणां समीपे चान्द्री मूर्तिः कथय जगतो ज्ञाप्यते केन रात्रौ ॥

Segmented

पश्यन् एनाम् बहल-सुषमा-मण्डली-अन्तः निमग्नाम् मध्ये अन्यासाम् अपि चल-दृशाम् ज्ञास्यसे नो कथम् त्वम् ज्योत्स्ना-जाल-स्नपित-भुवना तारकाणाम् समीपे चान्द्री मूर्तिः कथय जगतो ज्ञाप्यते केन रात्रौ

Analysis

Word Lemma Parse
पश्यन् दृश् pos=va,g=m,c=1,n=s,f=part
एनाम् एनद् pos=n,g=f,c=2,n=s
बहल बहल pos=a,comp=y
सुषमा सुषमा pos=n,comp=y
मण्डली मण्डल pos=n,comp=y
अन्तः अन्तर् pos=i
निमग्नाम् निमज्ज् pos=va,g=f,c=2,n=s,f=part
मध्ये मध्य pos=n,g=n,c=7,n=s
अन्यासाम् अन्य pos=n,g=f,c=6,n=p
अपि अपि pos=i
चल चल pos=a,comp=y
दृशाम् दृश् pos=n,g=f,c=6,n=p
ज्ञास्यसे ज्ञा pos=v,p=2,n=s,l=lrt
नो नो pos=i
कथम् कथम् pos=i
त्वम् त्वद् pos=n,g=,c=1,n=s
ज्योत्स्ना ज्योत्स्ना pos=n,comp=y
जाल जाल pos=n,comp=y
स्नपित स्नपय् pos=va,comp=y,f=part
भुवना भुवन pos=n,g=f,c=1,n=s
तारकाणाम् तारका pos=n,g=f,c=6,n=p
समीपे समीप pos=n,g=n,c=7,n=s
चान्द्री चान्द्र pos=a,g=f,c=1,n=s
मूर्तिः मूर्ति pos=n,g=f,c=1,n=s
कथय कथय् pos=v,p=2,n=s,l=lot
जगतो जगन्त् pos=n,g=n,c=6,n=s
ज्ञाप्यते ज्ञापय् pos=v,p=3,n=s,l=lat
केन केन pos=i
रात्रौ रात्रि pos=n,g=f,c=7,n=s