Original

स्निग्धस्कन्धस्रुतमधुरसः किञ्च तस्योपकण्ठे कूजद्भृङ्गः कुरवकतरुर्यः कुरङ्गेक्षणायाः काले काले करिकरशिरोविभ्रमाभ्यां भुजाभ्याम् आश्लिष्टाङ्गो वहति मुकुलच्छद्मना रोमभेदान् ॥

Segmented

स्निग्ध-स्कन्ध-स्रुत-मधु-रसः किंच तस्य उपकण्ठे कूजत्-भृङ्गः कुरवक-तरुः यः कुरङ्ग-ईक्षणायाः काले काले करि-कर-शिरः-विभ्रमाभ्याम् भुजाभ्याम् आश्लिष्ट-अङ्गः वहति मुकुल-छद्मना रोम-भेदान्

Analysis

Word Lemma Parse
स्निग्ध स्निग्ध pos=a,comp=y
स्कन्ध स्कन्ध pos=n,comp=y
स्रुत स्रु pos=va,comp=y,f=part
मधु मधु pos=a,comp=y
रसः रस pos=n,g=m,c=1,n=s
किंच किंच pos=i
तस्य तद् pos=n,g=m,c=6,n=s
उपकण्ठे उपकण्ठ pos=n,g=n,c=7,n=s
कूजत् कूज् pos=va,comp=y,f=part
भृङ्गः भृङ्ग pos=n,g=m,c=1,n=s
कुरवक कुरवक pos=n,comp=y
तरुः तरु pos=n,g=m,c=1,n=s
यः यद् pos=n,g=m,c=1,n=s
कुरङ्ग कुरङ्ग pos=n,comp=y
ईक्षणायाः ईक्षण pos=n,g=f,c=6,n=s
काले काल pos=n,g=m,c=7,n=s
काले काल pos=n,g=m,c=7,n=s
करि करिन् pos=n,comp=y
कर कर pos=n,comp=y
शिरः शिरस् pos=n,comp=y
विभ्रमाभ्याम् विभ्रम pos=n,g=m,c=3,n=d
भुजाभ्याम् भुज pos=n,g=m,c=3,n=d
आश्लिष्ट आश्लिष् pos=va,comp=y,f=part
अङ्गः अङ्ग pos=n,g=m,c=1,n=s
वहति वह् pos=v,p=3,n=s,l=lat
मुकुल मुकुल pos=n,comp=y
छद्मना छद्मन् pos=n,g=n,c=3,n=s
रोम रोमन् pos=n,comp=y
भेदान् भेद pos=n,g=m,c=2,n=p