Original

क्रीडानृत्ते भवनशिखिनां दूरमुक्ताहिसङ्गा सान्द्रच्छायाहृतरविकरा तत्र पाटीरवाटी मध्ये तस्यां स खलु लतिकामण्डपो रत्नभूमिः शश्वद्यस्मिन् किमपि वलति स्मावयोः प्रेमवल्ली ॥

Segmented

क्रीडा-नृत्ते भवन-शिखिनाम् दूर-मुक्त-अहि-सङ्गा सान्द्र-छाया-आहृत-रवि-करा तत्र पाटीर-वाटी मध्ये तस्याम् स खलु लतिका-मण्डपः रत्न-भूमिः शश्वत् यस्मिन् किम् अपि वलति स्म नौ प्रेम-वल्ली

Analysis

Word Lemma Parse
क्रीडा क्रीडा pos=n,comp=y
नृत्ते नृत्त pos=n,g=n,c=7,n=s
भवन भवन pos=n,comp=y
शिखिनाम् शिखिन् pos=n,g=m,c=6,n=p
दूर दूर pos=a,comp=y
मुक्त मुच् pos=va,comp=y,f=part
अहि अहि pos=n,comp=y
सङ्गा सङ्ग pos=n,g=f,c=1,n=s
सान्द्र सान्द्र pos=a,comp=y
छाया छाया pos=n,comp=y
आहृत आहृ pos=va,comp=y,f=part
रवि रवि pos=n,comp=y
करा कर pos=n,g=f,c=1,n=s
तत्र तत्र pos=i
पाटीर पाटीर pos=n,comp=y
वाटी वाटी pos=n,g=f,c=1,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
तस्याम् तद् pos=n,g=f,c=7,n=s
तद् pos=n,g=m,c=1,n=s
खलु खलु pos=i
लतिका लतिका pos=n,comp=y
मण्डपः मण्डप pos=n,g=m,c=1,n=s
रत्न रत्न pos=n,comp=y
भूमिः भूमि pos=n,g=f,c=1,n=s
शश्वत् शश्वत् pos=i
यस्मिन् यद् pos=n,g=m,c=7,n=s
किम् pos=n,g=n,c=2,n=s
अपि अपि pos=i
वलति वल् pos=v,p=3,n=s,l=lat
स्म स्म pos=i
नौ मद् pos=n,g=,c=6,n=d
प्रेम प्रेमन् pos=n,comp=y
वल्ली वल्ली pos=n,g=f,c=1,n=s