Original

भूषाभोगिश्वसितपवनैः फालनेत्रे प्रदीप्ते स्विन्नस्येन्दोरमृतपृषतैरूर्जितं निर्गलद्भिः मौलौ यस्य द्रुहिणशिरसां मण्डलं मण्डपान्तः क्ष्मादेवानां श्रुतिपदजुषां संशयानुच्छिनत्ति ॥

Segmented

भूषा-भोगि-श्वसित-पवनैः फाल-नेत्रे प्रदीप्ते स्विन्नस्य इन्दोः अमृत-पृषतैः ऊर्जितम् निर्गलद्भिः मौलौ यस्य द्रुहिण-शिरस् मण्डलम् मण्डप-अन्तः क्ष्मा-देवानाम् श्रुति-पद-जुषाम् संशयान् उच्छिनत्ति

Analysis

Word Lemma Parse
भूषा भूषा pos=n,comp=y
भोगि भोगिन् pos=n,comp=y
श्वसित श्वसित pos=n,comp=y
पवनैः पवन pos=n,g=m,c=3,n=p
फाल फाल pos=n,comp=y
नेत्रे नेत्र pos=n,g=n,c=1,n=d
प्रदीप्ते प्रदीप् pos=va,g=n,c=1,n=d,f=part
स्विन्नस्य स्विद् pos=va,g=m,c=6,n=s,f=part
इन्दोः इन्दु pos=n,g=m,c=6,n=s
अमृत अमृत pos=n,comp=y
पृषतैः पृषत pos=n,g=m,c=3,n=p
ऊर्जितम् ऊर्जय् pos=va,g=n,c=1,n=s,f=part
निर्गलद्भिः निर्गल् pos=va,g=m,c=3,n=p,f=part
मौलौ मौलि pos=n,g=m,c=7,n=s
यस्य यद् pos=n,g=m,c=6,n=s
द्रुहिण द्रुहिण pos=n,comp=y
शिरस् शिरस् pos=n,g=n,c=6,n=p
मण्डलम् मण्डल pos=n,g=n,c=1,n=s
मण्डप मण्डप pos=n,comp=y
अन्तः अन्तर् pos=i
क्ष्मा क्ष्मा pos=n,comp=y
देवानाम् देव pos=n,g=m,c=6,n=p
श्रुति श्रुति pos=n,comp=y
पद पद pos=n,comp=y
जुषाम् जुष् pos=a,g=m,c=6,n=p
संशयान् संशय pos=n,g=m,c=2,n=p
उच्छिनत्ति उच्छिद् pos=v,p=3,n=s,l=lat