Original

शास्त्रव्याख्या हरिहरकथा सत्क्रियाभ्यागतानाम् आलापो वा यदि सह बुधैराक्षिपेदस्य चेतः तद्विस्रब्धद्विजपरिवृते निष्कुटाद्रौ निषण्णः कोकूयेथाः स खलु मधुरां सूक्तिमाकर्ण्य तुष्येत् ॥

Segmented

शास्त्र-व्याख्या हरि-हर-कथा सत्क्रिया-अभ्यागतानाम् आलापो वा यदि सह बुधैः आक्षिपेत् अस्य चेतः तद्-विश्रब्ध-द्विज-परिवृते निष्कुट-अद्रौ निषण्णः कोकूयेथाः स खलु मधुराम् सूक्तिम् आकर्ण्य तुष्येत्

Analysis

Word Lemma Parse
शास्त्र शास्त्र pos=n,comp=y
व्याख्या व्याख्या pos=n,g=f,c=1,n=s
हरि हरि pos=n,comp=y
हर हर pos=n,comp=y
कथा कथा pos=n,g=f,c=1,n=s
सत्क्रिया सत्क्रिया pos=n,comp=y
अभ्यागतानाम् अभ्यागम् pos=va,g=m,c=6,n=p,f=part
आलापो आलाप pos=n,g=m,c=1,n=s
वा वा pos=i
यदि यदि pos=i
सह सह pos=i
बुधैः बुध pos=a,g=m,c=3,n=p
आक्षिपेत् आक्षिप् pos=v,p=3,n=s,l=vidhilin
अस्य इदम् pos=n,g=m,c=6,n=s
चेतः चेतस् pos=n,g=n,c=2,n=s
तद् तद् pos=n,comp=y
विश्रब्ध विश्रम्भ् pos=va,comp=y,f=part
द्विज द्विज pos=n,comp=y
परिवृते परिवृ pos=va,g=m,c=7,n=s,f=part
निष्कुट निष्कुट pos=n,comp=y
अद्रौ अद्रि pos=n,g=m,c=7,n=s
निषण्णः निषद् pos=va,g=m,c=1,n=s,f=part
कोकूयेथाः कोकूय् pos=v,p=2,n=s,l=vidhilin
तद् pos=n,g=m,c=1,n=s
खलु खलु pos=i
मधुराम् मधुर pos=a,g=f,c=2,n=s
सूक्तिम् सूक्ति pos=n,g=f,c=2,n=s
आकर्ण्य आकर्णय् pos=vi
तुष्येत् तुष् pos=v,p=3,n=s,l=vidhilin