Original

पद्मोपान्तादुषसि रमणे प्राप्नुवत्येव पार्श्वं मध्ये मारज्वरपरवशां वीक्षमाणो रथाङ्गीम् दूरं प्राप्ते मयि विधिवशाद्दूयमानां सखीं ते स्मारं स्मारं द्विगुणगमनोत्साह एव ध्रुवं स्याः ॥

Segmented

पद्म-उपान्तात् उषसि रमणे प्राप् एव पार्श्वम् मध्ये मार-ज्वर-परवशाम् वीक्षमाणो रथाङ्गीम् दूरम् प्राप्ते मयि विधि-वशात् दु सखीम् ते स्मारम् स्मारम् द्विगुण-गमन-उत्साहः एव ध्रुवम् स्याः

Analysis

Word Lemma Parse
पद्म पद्म pos=n,comp=y
उपान्तात् उपान्त pos=n,g=n,c=5,n=s
उषसि उषस् pos=n,g=f,c=7,n=s
रमणे रमण pos=n,g=m,c=7,n=s
प्राप् प्राप् pos=va,g=m,c=7,n=s,f=part
एव एव pos=i
पार्श्वम् पार्श्व pos=n,g=m,c=2,n=s
मध्ये मध्य pos=n,g=n,c=7,n=s
मार मार pos=n,comp=y
ज्वर ज्वर pos=n,comp=y
परवशाम् परवश pos=a,g=f,c=2,n=s
वीक्षमाणो वीक्ष् pos=va,g=m,c=1,n=s,f=part
रथाङ्गीम् रथाङ्गी pos=n,g=f,c=2,n=s
दूरम् दूरम् pos=i
प्राप्ते प्राप् pos=va,g=m,c=7,n=s,f=part
मयि मद् pos=n,g=,c=7,n=s
विधि विधि pos=n,comp=y
वशात् वश pos=n,g=m,c=5,n=s
दु दु pos=va,g=f,c=2,n=s,f=part
सखीम् सखी pos=n,g=f,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
स्मारम् स्मृ pos=vi
स्मारम् स्मृ pos=vi
द्विगुण द्विगुण pos=a,comp=y
गमन गमन pos=n,comp=y
उत्साहः उत्साह pos=n,g=m,c=1,n=s
एव एव pos=i
ध्रुवम् ध्रुवम् pos=i
स्याः अस् pos=v,p=2,n=s,l=vidhilin