Original

येषां वंशे समजनि हरिश्चन्द्रनामा नरेन्द्रः प्रत्यापत्तिः पतग यदुपज्ञं च कौमारिलानाम् युद्धे येषामहितहतये चण्डिका सन्निधत्ते तेषामेषां स्तुतिषु न भवेत् कस्य वक्त्रं पवित्रम् ॥

Segmented

येषाम् वंशे समजनि हरिश्चन्द्र-नामा नरेन्द्रः प्रत्यापत्तिः पतग यद्-उपज्ञम् च कौमारिलानाम् युद्धे येषाम् अहित-हत्यै चण्डिका संनिधत्ते तेषाम् एषाम् स्तुतिषु न भवेत् कस्य वक्त्रम् पवित्रम्

Analysis

Word Lemma Parse
येषाम् यद् pos=n,g=m,c=6,n=p
वंशे वंश pos=n,g=m,c=7,n=s
समजनि संजन् pos=v,p=3,n=s,l=lun
हरिश्चन्द्र हरिश्चन्द्र pos=n,comp=y
नामा नामन् pos=n,g=m,c=1,n=s
नरेन्द्रः नरेन्द्र pos=n,g=m,c=1,n=s
प्रत्यापत्तिः प्रत्यापत्ति pos=n,g=f,c=1,n=s
पतग पतग pos=n,g=m,c=8,n=s
यद् यद् pos=n,comp=y
उपज्ञम् उपज्ञा pos=n,g=n,c=1,n=s
pos=i
कौमारिलानाम् कौमारिल pos=a,g=m,c=6,n=p
युद्धे युद्ध pos=n,g=n,c=7,n=s
येषाम् यद् pos=n,g=m,c=6,n=p
अहित अहित pos=a,comp=y
हत्यै हति pos=n,g=f,c=4,n=s
चण्डिका चण्डिका pos=n,g=f,c=1,n=s
संनिधत्ते संनिधा pos=v,p=3,n=s,l=lat
तेषाम् तद् pos=n,g=m,c=6,n=p
एषाम् इदम् pos=n,g=m,c=6,n=p
स्तुतिषु स्तुति pos=n,g=f,c=7,n=p
pos=i
भवेत् भू pos=v,p=3,n=s,l=vidhilin
कस्य pos=n,g=m,c=6,n=s
वक्त्रम् वक्त्र pos=n,g=n,c=1,n=s
पवित्रम् पवित्र pos=n,g=n,c=1,n=s