Original

तत्रत्यास्त्वां कुसुमकलिकाशीथुधारां वमन्तो नीरन्ध्रेषु स्खलितगतयो निर्झरीशीकरेषु वल्लीडोलाविहरदटवीदेवतालालनीयाः सेविष्यन्ते चपलचमरीबालभारास्समीराः ॥

Segmented

तत्रत्याः त्वा कुसुम-कलिका-शीथु-धाराम् वमन्तो नीरन्ध्रेषु स्खलित-गतयः निर्झरी-शीकरेषु वल्ली-डोला-विहृ-अटवी-देवता-लालय् सेविष्यन्ते चपल-चमरी-बाल-भाराः समीराः

Analysis

Word Lemma Parse
तत्रत्याः तत्रत्य pos=a,g=m,c=1,n=p
त्वा त्वद् pos=n,g=,c=2,n=s
कुसुम कुसुम pos=n,comp=y
कलिका कलिका pos=n,comp=y
शीथु शीथु pos=n,comp=y
धाराम् धारा pos=n,g=f,c=2,n=s
वमन्तो वम् pos=va,g=m,c=1,n=p,f=part
नीरन्ध्रेषु नीरन्ध्र pos=a,g=m,c=7,n=p
स्खलित स्खल् pos=va,comp=y,f=part
गतयः गति pos=n,g=m,c=1,n=p
निर्झरी निर्झरी pos=n,comp=y
शीकरेषु शीकर pos=n,g=m,c=7,n=p
वल्ली वल्ली pos=n,comp=y
डोला डोला pos=n,comp=y
विहृ विहृ pos=va,comp=y,f=part
अटवी अटवी pos=n,comp=y
देवता देवता pos=n,comp=y
लालय् लालय् pos=va,g=m,c=1,n=p,f=krtya
सेविष्यन्ते सेव् pos=v,p=3,n=p,l=lrt
चपल चपल pos=a,comp=y
चमरी चमरी pos=n,comp=y
बाल बाल pos=n,comp=y
भाराः भार pos=n,g=m,c=1,n=p
समीराः समीर pos=n,g=m,c=1,n=p