Original

काले तस्मिन् करधृतगलन्नीवयो वारकान्ताः सम्भोगान्ते निबिडलतिकामन्दिरेभ्यश्चलन्त्यः वीतस्वेदास्तव विहरतः पक्षपालीसमीरैर् आखिन्नभ्रूवलनमलसैरर्चयिष्यन्त्यपाङ्गैः ॥

Segmented

काले तस्मिन् कर-धृत-गल्-नीव्यः वारक-अन्ताः संभोग-अन्ते निबिड-लतिका-मन्दिरेभ्यः चल् वीत-स्वेद ते विहरतः पक्ष-पालि-समीरैः आखिद्-भ्रू-वलनम् अलसैः अर्चयिष्यन्ति अपाङ्गैः

Analysis

Word Lemma Parse
काले काल pos=n,g=m,c=7,n=s
तस्मिन् तद् pos=n,g=m,c=7,n=s
कर कर pos=n,comp=y
धृत धृ pos=va,comp=y,f=part
गल् गल् pos=va,comp=y,f=part
नीव्यः नीवि pos=n,g=f,c=1,n=p
वारक वारक pos=n,comp=y
अन्ताः अन्त pos=n,g=f,c=1,n=p
संभोग सम्भोग pos=n,comp=y
अन्ते अन्त pos=n,g=m,c=7,n=s
निबिड निबिड pos=a,comp=y
लतिका लतिका pos=n,comp=y
मन्दिरेभ्यः मन्दिर pos=n,g=n,c=5,n=p
चल् चल् pos=va,g=f,c=1,n=p,f=part
वीत वी pos=va,comp=y,f=part
स्वेद स्वेद pos=n,g=f,c=1,n=p
ते त्वद् pos=n,g=,c=6,n=s
विहरतः विहृ pos=va,g=m,c=6,n=s,f=part
पक्ष पक्ष pos=n,comp=y
पालि पालि pos=n,comp=y
समीरैः समीर pos=n,g=m,c=3,n=p
आखिद् आखिद् pos=va,comp=y,f=part
भ्रू भ्रू pos=n,comp=y
वलनम् वलन pos=n,g=n,c=2,n=s
अलसैः अलस pos=a,g=m,c=3,n=p
अर्चयिष्यन्ति अर्चय् pos=v,p=3,n=p,l=lrt
अपाङ्गैः अपाङ्ग pos=n,g=m,c=3,n=p