Original

श्रीकामाक्ष्या विनतममरैरुत्सवं फाल्गुनाख्यं दृष्ट्वा यान्त्यः स्वभवनमुपारूढनानाविमानाः त्वत्संल्लापश्रवणतरलाः पश्चिमाम्भोधिवेलापर्यन्तं ते वरुणनगरीमञ्जुवाचः सहायाः ॥

Segmented

श्री-कामाक्ष्याः विनतम् अमरैः उत्सवम् फाल्गुन-आख्यम् दृष्ट्वा यान्त्यः स्व-भवनम् उपारूढ-नाना विमान त्वद्-संलाप-श्रवण-तरलाः पश्चिम-अम्भोधि-वेला-पर्यन्तम् ते वरुण-नगरी-मञ्जु-वाचः सहायाः

Analysis

Word Lemma Parse
श्री श्री pos=n,comp=y
कामाक्ष्याः कामाक्षी pos=n,g=f,c=6,n=s
विनतम् विनम् pos=va,g=m,c=2,n=s,f=part
अमरैः अमर pos=n,g=m,c=3,n=p
उत्सवम् उत्सव pos=n,g=m,c=2,n=s
फाल्गुन फाल्गुन pos=n,comp=y
आख्यम् आख्या pos=n,g=m,c=2,n=s
दृष्ट्वा दृश् pos=vi
यान्त्यः या pos=va,g=f,c=1,n=p,f=part
स्व स्व pos=a,comp=y
भवनम् भवन pos=n,g=n,c=2,n=s
उपारूढ उपारुह् pos=va,comp=y,f=part
नाना नाना pos=i
विमान विमान pos=n,g=f,c=1,n=p
त्वद् त्वद् pos=n,comp=y
संलाप संलाप pos=n,comp=y
श्रवण श्रवण pos=n,comp=y
तरलाः तरल pos=a,g=m,c=1,n=p
पश्चिम पश्चिम pos=a,comp=y
अम्भोधि अम्भोधि pos=n,comp=y
वेला वेला pos=n,comp=y
पर्यन्तम् पर्यन्त pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
वरुण वरुण pos=n,comp=y
नगरी नगरी pos=n,comp=y
मञ्जु मञ्जु pos=a,comp=y
वाचः वाच् pos=n,g=m,c=1,n=p
सहायाः सहाय pos=n,g=m,c=1,n=p