Original

अध्वानं ते हितमुपदिशाम्यश्रमेणैव गन्तुं स्निग्धच्छायैस्तरुभिरभितः शान्तघर्मप्रचारम् संस्कर्तासि ध्रुवमुपगतो यत्र पत्रीन्द्र तेषाम् उद्दामानामपि नवनवोद्यानलीलायितानाम् ॥

Segmented

अध्वानम् ते हितम् उपदिशामि अ श्रमेण एव गन्तुम् स्निग्ध-छाया तरुभिः अभितस् शान्त-घर्म-प्रचारम् संस्कर्तासि ध्रुवम् उपगतः यत्र पत्त्रिन्-इन्द्र तेषाम् उद्दामानाम् अपि नव-नव-उद्यान-लीलायितानाम्

Analysis

Word Lemma Parse
अध्वानम् अध्वन् pos=n,g=m,c=2,n=s
ते त्वद् pos=n,g=,c=6,n=s
हितम् हित pos=a,g=m,c=2,n=s
उपदिशामि उपदिश् pos=v,p=1,n=s,l=lat
pos=i
श्रमेण श्रम pos=n,g=m,c=3,n=s
एव एव pos=i
गन्तुम् गम् pos=vi
स्निग्ध स्निग्ध pos=a,comp=y
छाया छाया pos=n,g=m,c=3,n=p
तरुभिः तरु pos=n,g=m,c=3,n=p
अभितस् अभितस् pos=i
शान्त शम् pos=va,comp=y,f=part
घर्म घर्म pos=n,comp=y
प्रचारम् प्रचार pos=n,g=m,c=2,n=s
संस्कर्तासि संस्कृ pos=v,p=2,n=s,l=lrt
ध्रुवम् ध्रुवम् pos=i
उपगतः उपगम् pos=va,g=m,c=1,n=s,f=part
यत्र यत्र pos=i
पत्त्रिन् पत्त्रिन् pos=n,comp=y
इन्द्र इन्द्र pos=n,g=m,c=8,n=s
तेषाम् तद् pos=n,g=m,c=6,n=p
उद्दामानाम् उद्दाम pos=a,g=m,c=6,n=p
अपि अपि pos=i
नव नव pos=a,comp=y
नव नव pos=a,comp=y
उद्यान उद्यान pos=n,comp=y
लीलायितानाम् लीलाय् pos=va,g=m,c=6,n=p,f=part