Original

प्राप्यते गुणवतापि गुणानां व्यक्तम् आश्रयवशेन विशेषः ।तत् तथा हि दयिताननदत्तं व्यानशे मधु रसातिशयेन ॥

Segmented

प्राप्यते गुणवता अपि गुणानाम् व्यक्तम् आश्रय-वशेन विशेषः तत् तथा हि दयित-आनन-दत्तम् व्यानशे मधु रस-अतिशयेन

Analysis

Word Lemma Parse
प्राप्यते प्राप् pos=v,p=3,n=s,l=lat
गुणवता गुणवत् pos=a,g=m,c=3,n=s
अपि अपि pos=i
गुणानाम् गुण pos=n,g=m,c=6,n=p
व्यक्तम् व्यक्त pos=a,g=n,c=1,n=s
आश्रय आश्रय pos=n,comp=y
वशेन वश pos=n,g=m,c=3,n=s
विशेषः विशेष pos=n,g=m,c=1,n=s
तत् तद् pos=n,g=n,c=1,n=s
तथा तथा pos=i
हि हि pos=i
दयित दयित pos=a,comp=y
आनन आनन pos=n,comp=y
दत्तम् दा pos=va,g=n,c=1,n=s,f=part
व्यानशे व्यश् pos=v,p=3,n=s,l=lit
मधु मधु pos=n,g=n,c=1,n=s
रस रस pos=n,comp=y
अतिशयेन अतिशय pos=n,g=m,c=3,n=s