Original

पाणिपल्लवविधूननम् अन्तः सीत्कृतानि नयनार्धनिमेषाः ।योषितां रहसि गद्गदवाचाम् अस्त्रताम् उपययुर् मदनस्य ॥

Segmented

पाणिपल्लव-विधूननम् अन्तः सीत्कृतानि नयन-अर्ध-निमेषाः योषिताम् रहसि गद्गद-वाचाम् अस्त्र-ताम् उपययुः मदनस्य

Analysis

Word Lemma Parse
पाणिपल्लव पाणिपल्लव pos=n,comp=y
विधूननम् विधूनन pos=n,g=n,c=1,n=s
अन्तः अन्तर् pos=i
सीत्कृतानि शीत्कृ pos=va,g=n,c=1,n=p,f=part
नयन नयन pos=n,comp=y
अर्ध अर्ध pos=n,comp=y
निमेषाः निमेष pos=n,g=m,c=1,n=p
योषिताम् योषित् pos=n,g=f,c=6,n=p
रहसि रहस् pos=n,g=n,c=7,n=s
गद्गद गद्गद pos=a,comp=y
वाचाम् वाच् pos=n,g=f,c=6,n=p
अस्त्र अस्त्र pos=n,comp=y
ताम् ता pos=n,g=f,c=2,n=s
उपययुः उपया pos=v,p=3,n=p,l=lit
मदनस्य मदन pos=n,g=m,c=6,n=s