Original

तिरोहितान्तानि नितान्तम् आकुलैर् अपां विगाहाद् अलकैः प्रसारिभिः ।ययुर् वधूनां वदनानि तुल्यतां द्विरेफवृन्दान्तरितैः सरोरुहैः ॥

Segmented

तिरोहित-अन्तानि नितान्तम् आकुलैः अपाम् विगाहाद् अलकैः प्रसारिभिः ययुः वधूनाम् वदनानि तुल्य-ताम् द्विरेफ-वृन्द-अन्तरितैः सरोरुहैः

Analysis

Word Lemma Parse
तिरोहित तिरोधा pos=va,comp=y,f=part
अन्तानि अन्त pos=n,g=n,c=1,n=p
नितान्तम् नितान्त pos=a,g=n,c=2,n=s
आकुलैः आकुल pos=a,g=m,c=3,n=p
अपाम् अप् pos=n,g=n,c=6,n=p
विगाहाद् विगाह pos=n,g=m,c=5,n=s
अलकैः अलक pos=n,g=m,c=3,n=p
प्रसारिभिः प्रसारिन् pos=a,g=m,c=3,n=p
ययुः या pos=v,p=3,n=p,l=lit
वधूनाम् वधू pos=n,g=f,c=6,n=p
वदनानि वदन pos=n,g=n,c=1,n=p
तुल्य तुल्य pos=a,comp=y
ताम् ता pos=n,g=f,c=2,n=s
द्विरेफ द्विरेफ pos=n,comp=y
वृन्द वृन्द pos=n,comp=y
अन्तरितैः अन्तरि pos=va,g=n,c=3,n=p,f=part
सरोरुहैः सरोरुह pos=n,g=n,c=3,n=p