Original

उपेयुषीणां बृहतीर् अधित्यका मनांसि जह्रुः सुरराजयोषिताम् ।कपोलकाषैः करिणां मदारुणैर् उपाहितश्यामरुचश् च चन्दनाः ॥

Segmented

उपेयुषीणाम् बृहतीः अधित्यका मनांसि जह्रुः सुर-राज-योषिताम् कपोलकाषैः करिणाम् मद-अरुणैः उपाधा-श्याम-रुचः च चन्दनाः

Analysis

Word Lemma Parse
उपेयुषीणाम् उपे pos=va,g=f,c=6,n=p,f=part
बृहतीः बृहत् pos=a,g=f,c=2,n=p
अधित्यका अधित्यका pos=n,g=f,c=2,n=p
मनांसि मनस् pos=n,g=n,c=2,n=p
जह्रुः हृ pos=v,p=3,n=p,l=lit
सुर सुर pos=n,comp=y
राज राजन् pos=n,comp=y
योषिताम् योषित् pos=n,g=f,c=6,n=p
कपोलकाषैः कपोलकाष pos=n,g=m,c=3,n=p
करिणाम् करिन् pos=n,g=m,c=6,n=p
मद मद pos=n,comp=y
अरुणैः अरुण pos=a,g=m,c=3,n=p
उपाधा उपाधा pos=va,comp=y,f=part
श्याम श्याम pos=a,comp=y
रुचः रुच् pos=n,g=m,c=1,n=p
pos=i
चन्दनाः चन्दन pos=n,g=m,c=1,n=p