Original

अत्यर्थं दुरुपसदाद् उपेत्य दूरं पर्यन्ताद् अहिममयूखमण्डलस्य ।आशानाम् उपरचिताम् इवैकवेणीं रम्योर्मीं त्रिदशनदीं ययुर् बलानि ॥

Segmented

अत्यर्थम् दुरुपसदाद् उपेत्य दूरम् पर्यन्ताद् अहिममयूख-मण्डलस्य आशानाम् उपरचिताम् इव एक-वेणीम् रम्य-ऊर्मिम् त्रिदश-नदीम् ययुः बलानि

Analysis

Word Lemma Parse
अत्यर्थम् अत्यर्थम् pos=i
दुरुपसदाद् दुरुपसद pos=a,g=m,c=5,n=s
उपेत्य उपे pos=vi
दूरम् दूरम् pos=i
पर्यन्ताद् पर्यन्त pos=n,g=m,c=5,n=s
अहिममयूख अहिममयूख pos=n,comp=y
मण्डलस्य मण्डल pos=n,g=n,c=6,n=s
आशानाम् आशा pos=n,g=f,c=6,n=p
उपरचिताम् उपरचय् pos=va,g=f,c=2,n=s,f=part
इव इव pos=i
एक एक pos=n,comp=y
वेणीम् वेणी pos=n,g=f,c=2,n=s
रम्य रम्य pos=a,comp=y
ऊर्मिम् ऊर्मि pos=n,g=f,c=2,n=s
त्रिदश त्रिदश pos=n,comp=y
नदीम् नदी pos=n,g=f,c=2,n=s
ययुः या pos=v,p=3,n=p,l=lit
बलानि बल pos=n,g=n,c=1,n=p