Original

तिष्ठद्भिः कथम् अपि देवतानुभावाद् आकृष्टैः प्रजविभिर् आयतं तुरङ्गैः ।नेमीनाम् असति विवर्तनई रथौघैर् आसेदे वियति विमानवत् प्रवृत्तिः ॥

Segmented

तिष्ठद्भिः कथम् अपि देवता-अनुभावात् आकृष्टैः प्रजविभिः आयतम् तुरङ्गैः नेमीनाम् असति विवर्तनै रथ-ओघैः आसेदे वियति विमान-वत् प्रवृत्तिः

Analysis

Word Lemma Parse
तिष्ठद्भिः स्था pos=va,g=m,c=3,n=p,f=part
कथम् कथम् pos=i
अपि अपि pos=i
देवता देवता pos=n,comp=y
अनुभावात् अनुभाव pos=n,g=m,c=5,n=s
आकृष्टैः आकृष् pos=va,g=m,c=3,n=p,f=part
प्रजविभिः प्रजविन् pos=a,g=m,c=3,n=p
आयतम् आयम् pos=va,g=m,c=2,n=s,f=part
तुरङ्गैः तुरंग pos=n,g=m,c=3,n=p
नेमीनाम् नेमि pos=n,g=m,c=6,n=p
असति असत् pos=a,g=m,c=7,n=s
विवर्तनै विवर्तन pos=a,g=m,c=3,n=p
रथ रथ pos=n,comp=y
ओघैः ओघ pos=n,g=m,c=3,n=p
आसेदे आसद् pos=v,p=3,n=s,l=lit
वियति वियन्त् pos=n,g=n,c=7,n=s
विमान विमान pos=n,comp=y
वत् वत् pos=i
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s