Original

माहेन्द्रं नगम् अभितः करेणुवर्याः पर्यन्तस्थितजलदा दिवः पतन्तः ।सादृश्यं निलयननिष्प्रकम्पपक्षैर् आजग्मुर् जलनिधिशायिभिर् नगेन्द्रैः ॥

Segmented

माहेन्द्रम् नगम् अभितः करेणु-वर्याः पर्यन्त-स्थित-जलदाः दिवः पतन्तः सादृश्यम् निलयन-निष्प्रकम्प-पक्षैः आजग्मुः जलनिधि-शायिन् नग-इन्द्रैः

Analysis

Word Lemma Parse
माहेन्द्रम् माहेन्द्र pos=n,g=m,c=2,n=s
नगम् नग pos=n,g=m,c=2,n=s
अभितः अभितस् pos=i
करेणु करेणु pos=n,comp=y
वर्याः वर्य pos=a,g=m,c=1,n=p
पर्यन्त पर्यन्त pos=n,comp=y
स्थित स्था pos=va,comp=y,f=part
जलदाः जलद pos=n,g=m,c=1,n=p
दिवः दिव् pos=n,g=m,c=5,n=s
पतन्तः पत् pos=va,g=m,c=1,n=p,f=part
सादृश्यम् सादृश्य pos=n,g=n,c=2,n=s
निलयन निलयन pos=n,comp=y
निष्प्रकम्प निष्प्रकम्प pos=a,comp=y
पक्षैः पक्ष pos=n,g=m,c=3,n=p
आजग्मुः आगम् pos=v,p=3,n=p,l=lit
जलनिधि जलनिधि pos=n,comp=y
शायिन् शायिन् pos=a,g=m,c=3,n=p
नग नग pos=n,comp=y
इन्द्रैः इन्द्र pos=n,g=m,c=3,n=p