Original

संसिद्धाव् इति करणीयसंनिबद्धैर् आलापैः पिपतिषतां विलङ्घ्य वीथीम् ।आसेदे दशशतलोचनध्वजिन्या जीमूतैर् अपिहितसानुर् इन्द्रकीलः ॥

Segmented

संसिद्धाव् इति कार्य-संनिबद्धैः आलापैः पिपतिषताम् विलङ्घ्य वीथीम् आसेदे दश-शत-लोचन-ध्वजिन्याः जीमूतैः अपिहित-सानुः इन्द्रकीलः

Analysis

Word Lemma Parse
संसिद्धाव् संसिद्धि pos=n,g=f,c=7,n=s
इति इति pos=i
कार्य कृ pos=va,comp=y,f=krtya
संनिबद्धैः संनिबन्ध् pos=va,g=m,c=3,n=p,f=part
आलापैः आलाप pos=n,g=m,c=3,n=p
पिपतिषताम् पिपतिष् pos=va,g=m,c=6,n=p,f=part
विलङ्घ्य विलङ्घ् pos=vi
वीथीम् वीथि pos=n,g=f,c=2,n=s
आसेदे आसद् pos=v,p=3,n=s,l=lit
दश दशन् pos=n,comp=y
शत शत pos=n,comp=y
लोचन लोचन pos=n,comp=y
ध्वजिन्याः ध्वजिनी pos=n,g=f,c=6,n=s
जीमूतैः जीमूत pos=n,g=m,c=3,n=p
अपिहित अपिधा pos=va,comp=y,f=part
सानुः सानु pos=n,g=m,c=1,n=s
इन्द्रकीलः इन्द्रकील pos=n,g=m,c=1,n=s