Original

तप्तानाम् उपदधिरे विषाणभिन्नाः प्रह्लादं सुरकरिणां घनाः क्षरन्तः ।युक्तानां खलु महतां परोपकारे कल्याणी भवति रुजत्स्व् अपि प्रवृत्तिः ॥

Segmented

तप्तानाम् उपदधिरे विषाण-भिन्नाः प्रह्लादम् सुर-करिणाम् घनाः क्षरन्तः युक्तानाम् खलु महताम् पर-उपकारे कल्याणी भवति रुजत्स्व् अपि प्रवृत्तिः

Analysis

Word Lemma Parse
तप्तानाम् तप् pos=va,g=m,c=6,n=p,f=part
उपदधिरे उपधा pos=v,p=3,n=p,l=lit
विषाण विषाण pos=n,comp=y
भिन्नाः भिद् pos=va,g=m,c=1,n=p,f=part
प्रह्लादम् प्रह्लाद pos=n,g=m,c=2,n=s
सुर सुर pos=n,comp=y
करिणाम् करिन् pos=n,g=m,c=6,n=p
घनाः घन pos=n,g=m,c=1,n=p
क्षरन्तः क्षर् pos=va,g=m,c=1,n=p,f=part
युक्तानाम् युज् pos=va,g=m,c=6,n=p,f=part
खलु खलु pos=i
महताम् महत् pos=a,g=m,c=6,n=p
पर पर pos=n,comp=y
उपकारे उपकार pos=n,g=m,c=7,n=s
कल्याणी कल्याण pos=a,g=f,c=1,n=s
भवति भू pos=v,p=3,n=s,l=lat
रुजत्स्व् रुज् pos=va,g=m,c=7,n=p,f=part
अपि अपि pos=i
प्रवृत्तिः प्रवृत्ति pos=n,g=f,c=1,n=s