Original

आशंसितापचितिचारु पुरः सुराणाम् आदेशम् इत्य् अभिमुखं समवाप्य भर्तुः ।लेभे परां द्युतिम् अमर्त्यवधूसमूहः सम्भावना ह्य् अधिकृतस्य तनोति तेजः ॥

Segmented

आशंस्-अपचिति-चारु पुरः सुराणाम् आदेशम् इत्य् अभिमुखम् समवाप्य भर्तुः लेभे पराम् द्युतिम् अमर्त्य-वधू-समूहः सम्भावना ह्य् अधिकृतस्य तनोति तेजः

Analysis

Word Lemma Parse
आशंस् आशंस् pos=va,comp=y,f=part
अपचिति अपचिति pos=n,comp=y
चारु चारु pos=a,g=n,c=2,n=s
पुरः पुरस् pos=i
सुराणाम् सुर pos=n,g=m,c=6,n=p
आदेशम् आदेश pos=n,g=m,c=2,n=s
इत्य् इति pos=i
अभिमुखम् अभिमुख pos=a,g=m,c=2,n=s
समवाप्य समवाप् pos=vi
भर्तुः भर्तृ pos=n,g=m,c=6,n=s
लेभे लभ् pos=v,p=3,n=s,l=lit
पराम् पर pos=n,g=f,c=2,n=s
द्युतिम् द्युति pos=n,g=f,c=2,n=s
अमर्त्य अमर्त्य pos=a,comp=y
वधू वधू pos=n,comp=y
समूहः समूह pos=n,g=m,c=1,n=s
सम्भावना सम्भावना pos=n,g=f,c=1,n=s
ह्य् हि pos=i
अधिकृतस्य अधिकृ pos=va,g=m,c=6,n=s,f=part
तनोति तन् pos=v,p=3,n=s,l=lat
तेजः तेजस् pos=n,g=n,c=2,n=s