Original

उपलभ्य चञ्चलतरङ्गहृतं मदगन्धम् उत्थितवतां पयसः ।प्रतिदन्तिनाम् इव स सम्बुबुधे करियादसाम् अभिमुखान् करिणः ॥

Segmented

उपलभ्य चञ्चल-तरङ्ग-हृतम् मद-गन्धम् उत्थितवताम् पयसः प्रतिदन्तिनाम् इव स संबुबुधे करियादसाम् अभिमुखान् करिणः

Analysis

Word Lemma Parse
उपलभ्य उपलभ् pos=vi
चञ्चल चञ्चल pos=a,comp=y
तरङ्ग तरंग pos=n,comp=y
हृतम् हृ pos=va,g=m,c=2,n=s,f=part
मद मद pos=n,comp=y
गन्धम् गन्ध pos=n,g=m,c=2,n=s
उत्थितवताम् उत्था pos=va,g=m,c=6,n=p,f=part
पयसः पयस् pos=n,g=n,c=6,n=s
प्रतिदन्तिनाम् प्रतिदन्तिन् pos=n,g=m,c=6,n=p
इव इव pos=i
तद् pos=n,g=m,c=1,n=s
संबुबुधे सम्बुध् pos=v,p=3,n=s,l=lit
करियादसाम् करियादस् pos=n,g=n,c=6,n=p
अभिमुखान् अभिमुख pos=a,g=m,c=2,n=p
करिणः करिन् pos=n,g=m,c=2,n=p