Original

जनैर् उपग्रामम् अनिन्द्यकर्मभिर् विविक्तभावेङ्गितभूषणैर् वृताः ।भृशं ददर्शाश्रममण्डपोपमाः सपुष्पहासाः स निवेशवीरुधः ॥

Segmented

जनैः उप ग्रामम् अनिन्द्य-कर्मभिः विविक्त-भाव-इङ्गित-भूषणैः वृताः भृशम् ददर्श आश्रम-मण्डप-उपमाः स पुष्पहासाः स निवेश-वीरुधः

Analysis

Word Lemma Parse
जनैः जन pos=n,g=m,c=3,n=p
उप उप pos=i
ग्रामम् ग्राम pos=n,g=m,c=2,n=s
अनिन्द्य अनिन्द्य pos=a,comp=y
कर्मभिः कर्मन् pos=n,g=m,c=3,n=p
विविक्त विविक्त pos=a,comp=y
भाव भाव pos=n,comp=y
इङ्गित इङ्गित pos=n,comp=y
भूषणैः भूषण pos=n,g=m,c=3,n=p
वृताः वृ pos=va,g=f,c=2,n=p,f=part
भृशम् भृशम् pos=i
ददर्श दृश् pos=v,p=3,n=s,l=lit
आश्रम आश्रम pos=n,comp=y
मण्डप मण्डप pos=n,comp=y
उपमाः उपम pos=a,g=f,c=2,n=p
pos=i
पुष्पहासाः पुष्पहास pos=n,g=f,c=2,n=p
तद् pos=n,g=m,c=1,n=s
निवेश निवेश pos=n,comp=y
वीरुधः वीरुध् pos=n,g=f,c=2,n=p