Original

आकारम् आशंसितभूरिलाभं दधानम् अन्तःकरणानुरूपम् ।नियोजयिष्यन् विजयोदये तं तपःसमाधौ मुनिर् इत्य् उवाच ॥

Segmented

आकारम् आशंस्-भूरि-लाभम् दधानम् अन्तःकरण-अनुरूपम् नियोजयिष्यन् विजय-उदये तम् तपः-समाधौ मुनिः इत्य् उवाच

Analysis

Word Lemma Parse
आकारम् आकार pos=n,g=m,c=2,n=s
आशंस् आशंस् pos=va,comp=y,f=part
भूरि भूरि pos=n,comp=y
लाभम् लाभ pos=n,g=m,c=2,n=s
दधानम् धा pos=va,g=m,c=2,n=s,f=part
अन्तःकरण अन्तःकरण pos=n,comp=y
अनुरूपम् अनुरूप pos=a,g=m,c=2,n=s
नियोजयिष्यन् नियोजय् pos=va,g=m,c=1,n=s,f=part
विजय विजय pos=n,comp=y
उदये उदय pos=n,g=m,c=7,n=s
तम् तद् pos=n,g=m,c=2,n=s
तपः तपस् pos=n,comp=y
समाधौ समाधि pos=n,g=m,c=7,n=s
मुनिः मुनि pos=n,g=m,c=1,n=s
इत्य् इति pos=i
उवाच वच् pos=v,p=3,n=s,l=lit