Original

योगं च तं योग्यतमाय तस्मै तपःप्रभावाद् विततार सद्यः ।येनास्य तत्त्वेषु कृते ऽवभासे समुन्मिमीलेव चिराय चक्षुः ॥

Segmented

योगम् च तम् योग्यतमाय तस्मै तपः-प्रभावात् विततार सद्यः येन अस्य तत्त्वेषु कृते ऽवभासे समुन्मिमील इव चिराय चक्षुः

Analysis

Word Lemma Parse
योगम् योग pos=n,g=m,c=2,n=s
pos=i
तम् तद् pos=n,g=m,c=2,n=s
योग्यतमाय योग्यतम pos=a,g=m,c=4,n=s
तस्मै तद् pos=n,g=m,c=4,n=s
तपः तपस् pos=n,comp=y
प्रभावात् प्रभाव pos=n,g=m,c=5,n=s
विततार वितृ pos=v,p=3,n=s,l=lit
सद्यः सद्यस् pos=i
येन यद् pos=n,g=m,c=3,n=s
अस्य इदम् pos=n,g=m,c=6,n=s
तत्त्वेषु तत्त्व pos=n,g=n,c=7,n=p
कृते कृते pos=i
ऽवभासे अवभास pos=n,g=m,c=7,n=s
समुन्मिमील समुन्मील् pos=v,p=3,n=s,l=lit
इव इव pos=i
चिराय चिराय pos=i
चक्षुः चक्षुस् pos=n,g=n,c=1,n=s