Original

ततः शरच्चन्द्रकराभिरामैर् उत्सर्पिभिः प्रांशुम् इवांशुजालैः ।बिभ्राणम् आनीलरुचं पिशङ्गीर् जटास् तडित्वन्तम् इवाम्बुवाहम् ॥

Segmented

ततः शरद्-चन्द्र-कर-अभिरामैः उत्सर्पिभिः प्रांशुम् इव अंशु-जालैः बिभ्राणम् आनील-रुचम् पिशङ्गीः जटास् तडित्वन्तम् इव अम्बुवाहम्

Analysis

Word Lemma Parse
ततः ततस् pos=i
शरद् शरद् pos=n,comp=y
चन्द्र चन्द्र pos=n,comp=y
कर कर pos=n,comp=y
अभिरामैः अभिराम pos=a,g=n,c=3,n=p
उत्सर्पिभिः उत्सर्पिन् pos=a,g=n,c=3,n=p
प्रांशुम् प्रांशु pos=a,g=m,c=2,n=s
इव इव pos=i
अंशु अंशु pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
बिभ्राणम् भृ pos=va,g=m,c=2,n=s,f=part
आनील आनील pos=a,comp=y
रुचम् रुच् pos=n,g=f,c=2,n=s
पिशङ्गीः पिशङ्ग pos=a,g=f,c=2,n=p
जटास् जटा pos=n,g=f,c=2,n=p
तडित्वन्तम् तडित्वत् pos=a,g=m,c=2,n=s
इव इव pos=i
अम्बुवाहम् अम्बुवाह pos=n,g=m,c=2,n=s