Original

युक्ताः स्वशक्त्या मुनयः प्रजानां हितोपदेशैर् उपकारवन्तः ।समुच्छिनत्सि त्वम् अचिन्त्यधामा कर्माण्य् उपेतस्य दुरुत्तराणि ॥

Segmented

युक्ताः स्व-शक्त्या मुनयः प्रजानाम् हित-उपदेशैः उपकारवन्तः समुच्छिनत्सि त्वम् अचिन्त्य-धामा कर्माण्य् उपेतस्य दुरुत्तराणि

Analysis

Word Lemma Parse
युक्ताः युज् pos=va,g=m,c=1,n=p,f=part
स्व स्व pos=a,comp=y
शक्त्या शक्ति pos=n,g=f,c=3,n=s
मुनयः मुनि pos=n,g=m,c=1,n=p
प्रजानाम् प्रजा pos=n,g=f,c=6,n=p
हित हित pos=a,comp=y
उपदेशैः उपदेश pos=n,g=m,c=3,n=p
उपकारवन्तः उपकारवत् pos=a,g=m,c=1,n=p
समुच्छिनत्सि समुच्छिद् pos=v,p=2,n=s,l=lat
त्वम् त्वद् pos=n,g=,c=1,n=s
अचिन्त्य अचिन्त्य pos=a,comp=y
धामा धामन् pos=n,g=m,c=1,n=s
कर्माण्य् कर्मन् pos=n,g=n,c=2,n=p
उपेतस्य उपे pos=va,g=m,c=6,n=s,f=part
दुरुत्तराणि दुरुत्तर pos=a,g=n,c=2,n=p