Original

हंसा बृहन्तः सुरसद्मवाहाः संह्रादिकण्ठाभरणाः पतन्तः ।चक्रुः प्रयत्नेन विकीर्यमाणैर् व्योम्नः परिष्वङ्गम् इवाग्रपक्षैः ॥

Segmented

हंसा बृहन्तः सुर-सद्म-वाहाः संह्रादिन्-कण्ठ-आभरणाः पतन्तः चक्रुः प्रयत्नेन विकीर्यमाणैः व्योम्नः परिष्वङ्गम् इव अग्र-पक्षैः

Analysis

Word Lemma Parse
हंसा हंस pos=n,g=m,c=1,n=p
बृहन्तः बृहत् pos=a,g=m,c=1,n=p
सुर सुर pos=n,comp=y
सद्म सद्मन् pos=n,comp=y
वाहाः वाह pos=n,g=m,c=1,n=p
संह्रादिन् संह्रादिन् pos=a,comp=y
कण्ठ कण्ठ pos=n,comp=y
आभरणाः आभरण pos=n,g=m,c=1,n=p
पतन्तः पत् pos=va,g=m,c=1,n=p,f=part
चक्रुः कृ pos=v,p=3,n=p,l=lit
प्रयत्नेन प्रयत्न pos=n,g=m,c=3,n=s
विकीर्यमाणैः विकृ pos=va,g=m,c=3,n=p,f=part
व्योम्नः व्योमन् pos=n,g=m,c=6,n=s
परिष्वङ्गम् परिष्वङ्ग pos=n,g=m,c=2,n=s
इव इव pos=i
अग्र अग्र pos=n,comp=y
पक्षैः पक्ष pos=n,g=m,c=3,n=p