Original

अभिलषत उपायं विक्रमं कीर्तिलक्ष्म्योर् असुगमम् अरिसैन्यैर् अङ्कम् अभ्यागतस्य ।जनक इव शिशुत्वे सुप्रियस्यैकसूनोर् अविनयम् अपि सेहे पाण्डवस्य स्मरारिः ॥

Segmented

अभिलषत उपायम् विक्रमम् कीर्ति-लक्ष्मीनाम् असुगमम् अरि-सैन्यैः अङ्कम् अभ्यागतस्य जनक इव शिशु-त्वे सु प्रियस्य एक-सूनोः अविनयम् अपि सेहे पाण्डवस्य स्मरारिः

Analysis

Word Lemma Parse
अभिलषत अभिलष् pos=va,g=m,c=6,n=s,f=part
उपायम् उपाय pos=n,g=m,c=2,n=s
विक्रमम् विक्रम pos=n,g=m,c=2,n=s
कीर्ति कीर्ति pos=n,comp=y
लक्ष्मीनाम् लक्ष्मी pos=n,g=f,c=6,n=d
असुगमम् असुगम pos=a,g=m,c=2,n=s
अरि अरि pos=n,comp=y
सैन्यैः सैन्य pos=n,g=n,c=3,n=p
अङ्कम् अङ्क pos=n,g=m,c=2,n=s
अभ्यागतस्य अभ्यागम् pos=va,g=m,c=6,n=s,f=part
जनक जनक pos=n,g=m,c=1,n=s
इव इव pos=i
शिशु शिशु pos=n,comp=y
त्वे त्व pos=n,g=n,c=7,n=s
सु सु pos=i
प्रियस्य प्रिय pos=a,g=m,c=6,n=s
एक एक pos=n,comp=y
सूनोः सूनु pos=n,g=m,c=6,n=s
अविनयम् अविनय pos=n,g=m,c=2,n=s
अपि अपि pos=i
सेहे सह् pos=v,p=3,n=s,l=lit
पाण्डवस्य पाण्डव pos=n,g=m,c=6,n=s
स्मरारिः स्मरारि pos=n,g=m,c=1,n=s