Original

निजघ्निरे तस्य हरेषुजालैः पतन्ति वृन्दानि शिलीमुखानाम् ।ऊर्जस्विभिः सिन्धुमुखागतानि यादांसि यादोभिर् इवाम्बुराशेः ॥

Segmented

निजघ्निरे तस्य हर-इषु-जालैः पतन्ति वृन्दानि शिलीमुखानाम् ऊर्जस्विभिः सिन्धु-मुख-आगतानि यादांसि यादोभिः इव अम्बुराशि

Analysis

Word Lemma Parse
निजघ्निरे निहन् pos=v,p=3,n=p,l=lit
तस्य तद् pos=n,g=m,c=6,n=s
हर हर pos=n,comp=y
इषु इषु pos=n,comp=y
जालैः जाल pos=n,g=n,c=3,n=p
पतन्ति पत् pos=va,g=n,c=1,n=p,f=part
वृन्दानि वृन्द pos=n,g=n,c=1,n=p
शिलीमुखानाम् शिलीमुख pos=n,g=m,c=6,n=p
ऊर्जस्विभिः ऊर्जस्विन् pos=a,g=n,c=3,n=p
सिन्धु सिन्धु pos=n,comp=y
मुख मुख pos=n,comp=y
आगतानि आगम् pos=va,g=n,c=1,n=p,f=part
यादांसि यादस् pos=n,g=n,c=1,n=p
यादोभिः यादस् pos=n,g=n,c=3,n=p
इव इव pos=i
अम्बुराशि अम्बुराशि pos=n,g=m,c=6,n=s